Featured Post

Worksheet (PT1) with Answerkey - Sanskrit - VIII (2024-25)

  उत्तरमाला ~

Sunday, September 6, 2015

॥ संख्या ॥ [ Sankhyaa - 1-4 in all 'Lingas' ]


॥ संख्या ॥
[ १–तः ४–पर्यन्तम्  (त्रिषु लिङ्गेषु) + (प्रथमा–विभक्तौ) ]

वचनम् 
शब्दः
लिङ्गम् 
एकवचनम्
एक
द्विवचनम्
द्वि
बहुवचनम्
त्रि
बहुवचनम्
चतुर्
पुंलिङ्गम्
एकः

द्वौ

त्रयः
चत्वारः

स्त्रीलिङ्गम्
एका
द्वे
तिस्रः
चतस्रः

नपुंसकलिङ्गम्
एकम्
द्वे
त्रीणि
चत्वारि


वाक्यप्रयोगः –
तत्र एकः  छात्रः पठति ।
पाकशालायाम् एका  महिला भोजनं पचति ।
चित्रकारः एकं  चित्रं रचयति ।
सरोवरे द्वौ  कलहंसौ (Ducks) तरतः ।
द्वे  बालिके गायतः ।
वृक्षात् द्वे  फले पततः ।
वृक्षे त्रयः  वानराः कूर्दन्ति ।
क्रीडाक्षेत्रे तिस्रः  धाविकाः धावन्ति ।
मम विद्यालये त्रीणि  भवनानि सन्ति ।
तत्र चत्वारः  संस्कृत–शिक्षकाः अस्मान् पाठयन्ति ।
तिस्रः  सङ्गीत–शिक्षिकाः अपि सन्ति ।
मम कक्षायां चत्वारि  वातायनानि (Windows) सन्ति ।
–––––––––––––––––––


No comments:

Post a Comment